rigveda/1/128/4
ऋषिः - परुच्छेपो दैवोदासिः
देवता - अग्निः
छन्दः - विराडत्यष्टिः
स्वरः - गान्धारः
सः । सु॒ऽक्रतुः॑ । पु॒रःऽहि॑तः॑ । दमे॑ऽदमे । अ॒ग्निः । य॒ज्ञस्य । अ॒ध्व॒रस्य॑ । चे॒त॒ति॒ । क्रत्वा॑ । य॒ज्ञस्य॑ । चे॒त॒ति॒ । क्रत्वा॑ । वे॒धाः । इ॒षु॒ऽय॒ते । विश्वा॑ । जा॒तानि॑ । प॒स्प॒शे॒ । यतः॑ । घृ॒त॒ऽश्रीः । अति॑थिः । अजा॑यत । वह्निः॑ । वे॒धाः । अजा॑यत ॥
सः । सुऽक्रतुः । पुरःऽहितः । दमेऽदमे । अग्निः । यज्ञस्य । अध्वरस्य । चेतति । क्रत्वा । यज्ञस्य । चेतति । क्रत्वा । वेधाः । इषुऽयते । विश्वा । जातानि । पस्पशे । यतः । घृतऽश्रीः । अतिथिः । अजायत । वह्निः । वेधाः । अजायत ॥