rigveda/1/127/11
ऋषिः - परुच्छेपो दैवोदासिः
देवता - अग्निः
छन्दः - भुरिगष्टिः
स्वरः - मध्यमः
सः । नः॒ । नेदि॑ष्ठम् । ददृ॑शानः । आ । भ॒र॒ । अग्ने॑ । दे॒वेभिः॑ । सऽच॑नाः । सुऽचे॒तुना॑ । म॒हः । र॒यः । सु॒ऽचे॒तुना॑ । महि॑ । श॒वि॒ष्ठ॒ । नः॒ । कृ॒धि॒ । स॒म्ऽचक्षे॑ । भु॒जे । अ॒स्यै । महि॑ । स्तो॒तृऽभ्यः॑ । म॒घ॒ऽव॒न् । सु॒ऽवीर्य॑म् । मथीः॑ । उ॒ग्रः । न । शव॑सा ॥
सः । नः । नेदिष्ठम् । ददृशानः । आ । भर । अग्ने । देवेभिः । सऽचनाः । सुऽचेतुना । महः । रयः । सुऽचेतुना । महि । शविष्ठ । नः । कृधि । सम्ऽचक्षे । भुजे । अस्यै । महि । स्तोतृऽभ्यः । मघऽवन् । सुऽवीर्यम् । मथीः । उग्रः । न । शवसा ॥