rigveda/1/127/10
ऋषिः - परुच्छेपो दैवोदासिः
देवता - अग्निः
छन्दः - भुरिगतिशक्वरी
स्वरः - पञ्चमः
प्र । वः॒ । म॒हे । सह॑सा । सह॑स्वते । उ॒षः॒ऽबुधे॑ । प॒शु॒ऽसे । न । अ॒ग्नये॑ । स्तोमः॑ । ब॒भू॒तु॒ । अ॒ग्नये॑ । प्रति॑ । यत् । ई॒म् । ह॒विष्मान् । विश्वा॑सु । क्षासु॑ । जोगु॑वे । अग्रे॑ । रे॒भः । न । ज॒र॒ते॒ । ऋ॒षू॒णाम् । जूर्णिः॑ । होता॑ । ऋ॒षू॒णाम् ॥
प्र । वः । महे । सहसा । सहस्वते । उषःऽबुधे । पशुऽसे । न । अग्नये । स्तोमः । बभूतु । अग्नये । प्रति । यत् । ईम् । हविष्मान् । विश्वासु । क्षासु । जोगुवे । अग्रे । रेभः । न । जरते । ऋषूणाम् । जूर्णिः । होता । ऋषूणाम् ॥