rigveda/1/126/3
ऋषिः - कक्षीवान्
देवता - विद्वाँसः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
उप॑ । मा॒ । श्या॒वाः । स्व॒नये॑न । द॒त्ताः । व॒धूऽम॑न्तः । दश॑ । रथा॑सः । अ॒स्थुः॒ । ष॒ष्टिः । स॒हस्र॑म् । अनु॑ । गव्य॑म् । आ । अ॒गा॒त् । सन॑त् । क॒क्षीवा॑न् । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् ॥
उप । मा । श्यावाः । स्वनयेन । दत्ताः । वधूऽमन्तः । दश । रथासः । अस्थुः । षष्टिः । सहस्रम् । अनु । गव्यम् । आ । अगात् । सनत् । कक्षीवान् । अभिऽपित्वे । अह्नाम् ॥