rigveda/1/126/2

श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्त्स॒द्य आद॑म्। श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां॑ दि॒वि श्रवो॒ऽजर॒मा त॑तान ॥

श॒तम् । राज्ञः॑ । नाध॑मानस्य । नि॒ष्कान् । श॒तम् । अश्वा॑न् । प्रऽय॑तान् । स॒द्यः । आद॑म् । श॒तम् । क॒क्षीवा॑न् । असु॑रस्य । गोना॑म् । दि॒वि । श्रवः॑ । अ॒जर॑म् । आ । त॒ता॒न॒ ॥

ऋषिः - कक्षीवान्

देवता - विद्वाँसः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्त्स॒द्य आद॑म्। श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां॑ दि॒वि श्रवो॒ऽजर॒मा त॑तान ॥

स्वर सहित पद पाठ

श॒तम् । राज्ञः॑ । नाध॑मानस्य । नि॒ष्कान् । श॒तम् । अश्वा॑न् । प्रऽय॑तान् । स॒द्यः । आद॑म् । श॒तम् । क॒क्षीवा॑न् । असु॑रस्य । गोना॑म् । दि॒वि । श्रवः॑ । अ॒जर॑म् । आ । त॒ता॒न॒ ॥


स्वर रहित मन्त्र

शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्त्सद्य आदम्। शतं कक्षीवाँ असुरस्य गोनां दिवि श्रवोऽजरमा ततान ॥


स्वर रहित पद पाठ

शतम् । राज्ञः । नाधमानस्य । निष्कान् । शतम् । अश्वान् । प्रऽयतान् । सद्यः । आदम् । शतम् । कक्षीवान् । असुरस्य । गोनाम् । दिवि । श्रवः । अजरम् । आ । ततान ॥