rigveda/1/124/7

अ॒भ्रा॒तेव॑ पुं॒स ए॑ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना॑नाम्। जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ उ॒षा ह॒स्रेव॒ नि रि॑णीते॒ अप्स॑: ॥

अ॒भ्रा॒ताऽइ॑व । पुं॒सः । ए॒ति॒ । प्र॒ती॒ची । ग॒र्त॒ऽआ॒रुक्ऽइ॑व । स॒नये॑ । धना॑नाम् । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ । उ॒षाः । ह॒स्राऽइ॑व । नि । रि॒णी॒ते॒ । अप्सः॑ ॥

ऋषिः - कक्षीवान् दैर्घतमसः औशिजः

देवता - उषाः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

अ॒भ्रा॒तेव॑ पुं॒स ए॑ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना॑नाम्। जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ उ॒षा ह॒स्रेव॒ नि रि॑णीते॒ अप्स॑: ॥

स्वर सहित पद पाठ

अ॒भ्रा॒ताऽइ॑व । पुं॒सः । ए॒ति॒ । प्र॒ती॒ची । ग॒र्त॒ऽआ॒रुक्ऽइ॑व । स॒नये॑ । धना॑नाम् । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ । उ॒षाः । ह॒स्राऽइ॑व । नि । रि॒णी॒ते॒ । अप्सः॑ ॥


स्वर रहित मन्त्र

अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम्। जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्स: ॥


स्वर रहित पद पाठ

अभ्राताऽइव । पुंसः । एति । प्रतीची । गर्तऽआरुक्ऽइव । सनये । धनानाम् । जायाऽइव । पत्ये । उशती । सुऽवासाः । उषाः । हस्राऽइव । नि । रिणीते । अप्सः ॥