rigveda/1/118/4

आ वां॑ श्ये॒नासो॑ अश्विना वहन्तु॒ रथे॑ यु॒क्तास॑ आ॒शव॑: पत॑ङ्गाः। ये अ॒प्तुरो॑ दि॒व्यासो॒ न गृध्रा॑ अ॒भि प्रयो॑ नासत्या॒ वह॑न्ति ॥

आ । वा॒म् । श्ये॒नासः॑ । अ॒श्वि॒ना॒ । व॒ह॒न्तु॒ । रथे॑ । यु॒क्तासः॑ । आ॒शवः॑ । प॒त॒ङ्गाः । ये । अ॒प्ऽतुरः॑ । दि॒व्यासः॑ । न । गृध्राः॑ । अ॒भि । प्रयः॑ । ना॒स॒त्या॒ । वह॑न्ति ॥

ऋषिः - कक्षीवान्

देवता - अश्विनौ

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

आ वां॑ श्ये॒नासो॑ अश्विना वहन्तु॒ रथे॑ यु॒क्तास॑ आ॒शव॑: पत॑ङ्गाः। ये अ॒प्तुरो॑ दि॒व्यासो॒ न गृध्रा॑ अ॒भि प्रयो॑ नासत्या॒ वह॑न्ति ॥

स्वर सहित पद पाठ

आ । वा॒म् । श्ये॒नासः॑ । अ॒श्वि॒ना॒ । व॒ह॒न्तु॒ । रथे॑ । यु॒क्तासः॑ । आ॒शवः॑ । प॒त॒ङ्गाः । ये । अ॒प्ऽतुरः॑ । दि॒व्यासः॑ । न । गृध्राः॑ । अ॒भि । प्रयः॑ । ना॒स॒त्या॒ । वह॑न्ति ॥


स्वर रहित मन्त्र

आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशव: पतङ्गाः। ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥


स्वर रहित पद पाठ

आ । वाम् । श्येनासः । अश्विना । वहन्तु । रथे । युक्तासः । आशवः । पतङ्गाः । ये । अप्ऽतुरः । दिव्यासः । न । गृध्राः । अभि । प्रयः । नासत्या । वहन्ति ॥