rigveda/1/118/10

ता वां॑ नरा॒ स्वव॑से सुजा॒ता हवा॑महे अश्विना॒ नाध॑मानाः। आ न॒ उप॒ वसु॑मता॒ रथे॑न॒ गिरो॑ जुषा॒णा सु॑वि॒ताय॑ यातम् ॥

ता । वा॒म् । न॒रा॒ । सु । अव॑से । सु॒ऽजा॒ता । हवा॑महे । अ॒श्वि॒ना॒ । नाध॑मानाः । आ । नः॒ । उप॑ । वसु॑ऽमता । रथे॑न । गिरः॑ । जु॒षा॒णा । सु॒वि॒ताय॑ । यातम् ॥

ऋषिः - कक्षीवान्

देवता - अश्विनौ

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

ता वां॑ नरा॒ स्वव॑से सुजा॒ता हवा॑महे अश्विना॒ नाध॑मानाः। आ न॒ उप॒ वसु॑मता॒ रथे॑न॒ गिरो॑ जुषा॒णा सु॑वि॒ताय॑ यातम् ॥

स्वर सहित पद पाठ

ता । वा॒म् । न॒रा॒ । सु । अव॑से । सु॒ऽजा॒ता । हवा॑महे । अ॒श्वि॒ना॒ । नाध॑मानाः । आ । नः॒ । उप॑ । वसु॑ऽमता । रथे॑न । गिरः॑ । जु॒षा॒णा । सु॒वि॒ताय॑ । यातम् ॥


स्वर रहित मन्त्र

ता वां नरा स्ववसे सुजाता हवामहे अश्विना नाधमानाः। आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥


स्वर रहित पद पाठ

ता । वाम् । नरा । सु । अवसे । सुऽजाता । हवामहे । अश्विना । नाधमानाः । आ । नः । उप । वसुऽमता । रथेन । गिरः । जुषाणा । सुविताय । यातम् ॥