rigveda/1/117/17

श॒तं मे॒षान्वृ॒क्ये॑ मामहा॒नं तम॒: प्रणी॑त॒मशि॑वेन पि॒त्रा। आक्षी ऋ॒ज्राश्वे॑ अश्विनावधत्तं॒ ज्योति॑र॒न्धाय॑ चक्रथुर्वि॒चक्षे॑ ॥

श॒तम् । मे॒षान् । वृ॒क्ये॑ । म॒म॒हा॒नम् । तमः॑ । प्रऽणी॑तम् । अशि॑वेन । पि॒त्रा । आ । अ॒क्षी इति॑ । ऋ॒ज्रऽअ॑श्वे । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् । ज्योतिः॑ । अ॒न्धाय॑ । च॒क्र॒थुः॒ । वि॒ऽचक्षे॑ ॥

ऋषिः - कक्षीवान्

देवता - अश्विनौ

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

श॒तं मे॒षान्वृ॒क्ये॑ मामहा॒नं तम॒: प्रणी॑त॒मशि॑वेन पि॒त्रा। आक्षी ऋ॒ज्राश्वे॑ अश्विनावधत्तं॒ ज्योति॑र॒न्धाय॑ चक्रथुर्वि॒चक्षे॑ ॥

स्वर सहित पद पाठ

श॒तम् । मे॒षान् । वृ॒क्ये॑ । म॒म॒हा॒नम् । तमः॑ । प्रऽणी॑तम् । अशि॑वेन । पि॒त्रा । आ । अ॒क्षी इति॑ । ऋ॒ज्रऽअ॑श्वे । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् । ज्योतिः॑ । अ॒न्धाय॑ । च॒क्र॒थुः॒ । वि॒ऽचक्षे॑ ॥


स्वर रहित मन्त्र

शतं मेषान्वृक्ये मामहानं तम: प्रणीतमशिवेन पित्रा। आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे ॥


स्वर रहित पद पाठ

शतम् । मेषान् । वृक्ये । ममहानम् । तमः । प्रऽणीतम् । अशिवेन । पित्रा । आ । अक्षी इति । ऋज्रऽअश्वे । अश्विनौ । अधत्तम् । ज्योतिः । अन्धाय । चक्रथुः । विऽचक्षे ॥