rigveda/1/117/10

ए॒तानि॑ वां श्रव॒स्या॑ सुदानू॒ ब्रह्मा॑ङ्गू॒षं सद॑नं॒ रोद॑स्योः। यद्वां॑ प॒ज्रासो॑ अश्विना॒ हव॑न्ते या॒तमि॒षा च॑ वि॒दुषे॑ च॒ वाज॑म् ॥

ए॒तानि॑ । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । ब्रह्म॑ । आ॒ङ्गू॒षम् । सद॑नम् । रोद॑स्योः । यत् । वा॒म् । प॒ज्रासः॑ । अ॒श्वि॒ना॒ । हव॑न्ते । य॒तम् । इ॒षा । च॒ । वि॒दुषे॑ । च॒ । वाज॑म् ॥

ऋषिः - कक्षीवान्

देवता - अश्विनौ

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

ए॒तानि॑ वां श्रव॒स्या॑ सुदानू॒ ब्रह्मा॑ङ्गू॒षं सद॑नं॒ रोद॑स्योः। यद्वां॑ प॒ज्रासो॑ अश्विना॒ हव॑न्ते या॒तमि॒षा च॑ वि॒दुषे॑ च॒ वाज॑म् ॥

स्वर सहित पद पाठ

ए॒तानि॑ । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । ब्रह्म॑ । आ॒ङ्गू॒षम् । सद॑नम् । रोद॑स्योः । यत् । वा॒म् । प॒ज्रासः॑ । अ॒श्वि॒ना॒ । हव॑न्ते । य॒तम् । इ॒षा । च॒ । वि॒दुषे॑ । च॒ । वाज॑म् ॥


स्वर रहित मन्त्र

एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः। यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम् ॥


स्वर रहित पद पाठ

एतानि । वाम् । श्रवस्या । सुदानू इति सुऽदानू । ब्रह्म । आङ्गूषम् । सदनम् । रोदस्योः । यत् । वाम् । पज्रासः । अश्विना । हवन्ते । यतम् । इषा । च । विदुषे । च । वाजम् ॥