rigveda/1/116/2

वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभि॒: शाश॑दाना। तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥

वी॒ळु॒पत्म॑ऽभिः । आ॒शु॒हेम॑ऽभिः । वा॒ । दे॒वाना॑म् । वा॒ । जू॒तिऽभिः॑ । शाश॑दाना । तत् । रास॑भः । ना॒स॒त्या॒ । स॒हस्र॑म् । आ॒जा । य॒मस्य॑ । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥

ऋषिः - कक्षीवान्

देवता - अश्विनौ

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभि॒: शाश॑दाना। तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥

स्वर सहित पद पाठ

वी॒ळु॒पत्म॑ऽभिः । आ॒शु॒हेम॑ऽभिः । वा॒ । दे॒वाना॑म् । वा॒ । जू॒तिऽभिः॑ । शाश॑दाना । तत् । रास॑भः । ना॒स॒त्या॒ । स॒हस्र॑म् । आ॒जा । य॒मस्य॑ । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥


स्वर रहित मन्त्र

वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभि: शाशदाना। तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय ॥


स्वर रहित पद पाठ

वीळुपत्मऽभिः । आशुहेमऽभिः । वा । देवानाम् । वा । जूतिऽभिः । शाशदाना । तत् । रासभः । नासत्या । सहस्रम् । आजा । यमस्य । प्रऽधने । जिगाय ॥