rigveda/1/114/4

त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं॑ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे। आ॒रे अ॒स्मद्दैव्यं॒ हेळो॑ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ॥

त्वे॒षम् । व॒यम् । रु॒द्रम् । य॒ज्ञ॒ऽसाध॑म् । व॒ङ्कुम् । क॒विम् । अव॑से । नि । ह्व॒या॒म॒हे॒ । आ॒रे । अ॒स्मत् । दैव्य॑म् । हेळः॑ । अ॒स्य॒तु॒ । सु॒ऽम॒तिम् । इत् । व॒यम् । अ॒स्य॒ । आ । वृ॒णी॒म॒हे॒ ॥

ऋषिः - कुत्स आङ्गिरसः

देवता - रुद्रः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं॑ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे। आ॒रे अ॒स्मद्दैव्यं॒ हेळो॑ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ॥

स्वर सहित पद पाठ

त्वे॒षम् । व॒यम् । रु॒द्रम् । य॒ज्ञ॒ऽसाध॑म् । व॒ङ्कुम् । क॒विम् । अव॑से । नि । ह्व॒या॒म॒हे॒ । आ॒रे । अ॒स्मत् । दैव्य॑म् । हेळः॑ । अ॒स्य॒तु॒ । सु॒ऽम॒तिम् । इत् । व॒यम् । अ॒स्य॒ । आ । वृ॒णी॒म॒हे॒ ॥


स्वर रहित मन्त्र

त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे नि ह्वयामहे। आरे अस्मद्दैव्यं हेळो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ॥


स्वर रहित पद पाठ

त्वेषम् । वयम् । रुद्रम् । यज्ञऽसाधम् । वङ्कुम् । कविम् । अवसे । नि । ह्वयामहे । आरे । अस्मत् । दैव्यम् । हेळः । अस्यतु । सुऽमतिम् । इत् । वयम् । अस्य । आ । वृणीमहे ॥