rigveda/1/114/3
ऋषिः - कुत्स आङ्गिरसः
देवता - रुद्रः
छन्दः - विराड्जगती
स्वरः - निषादः
अ॒श्याम॑ । ते॒ । सु॒ऽम॒तिम् । दे॒व॒ऽय॒ज्यया॑ । क्ष॒यत्ऽवी॑रस्य । तव॑ । रु॒द्र॒ । मी॒ढ्वः॒ । सु॒म्न॒ऽयन् । इत् । विशः॑ । अ॒स्माक॑म् । आ । च॒र॒ । अरि॑ष्टऽवीराः । जु॒ह॒वा॒म॒ । ते॒ । ह॒विः ॥
अश्याम । ते । सुऽमतिम् । देवऽयज्यया । क्षयत्ऽवीरस्य । तव । रुद्र । मीढ्वः । सुम्नऽयन् । इत् । विशः । अस्माकम् । आ । चर । अरिष्टऽवीराः । जुहवाम । ते । हविः ॥