rigveda/1/113/20
ऋषिः - कुत्स आङ्गिरसः
देवता - उषाः द्वितीयस्यार्द्धर्चस्य रात्रिरपि
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
यत् । चि॒त्रम् । अप्नः॑ । उ॒षसः॑ । वह॑न्ति । ई॒जा॒नाय॑ । श॒श॒मा॒नाय॑ । भ॒द्रम् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
यत् । चित्रम् । अप्नः । उषसः । वहन्ति । ईजानाय । शशमानाय । भद्रम् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥