rigveda/1/113/13

शश्व॑त्पु॒रोषा व्यु॑वास दे॒व्यथो॑ अ॒द्येदं व्या॑वो म॒घोनी॑। अथो॒ व्यु॑च्छा॒दुत्त॑राँ॒ अनु॒ द्यून॒जरा॒मृता॑ चरति स्व॒धाभि॑: ॥

शश्व॑त् । पु॒रा । उ॒षाः । वि । उ॒वा॒स॒ । दे॒वी । अथो॒ इति॑ । अ॒द्य । इ॒दम् । वि । आ॒वः॒ । म॒घोनी॑ । अथो॒ इति॑ । वि । उ॒च्छा॒त् । उत्ऽत॑रान् । अनु॑ । द्यून् । अ॒जरा॑ । अ॒मृता॑ । च॒र॒ति॒ । स्व॒धाभिः॑ ॥

ऋषिः - कुत्स आङ्गिरसः

देवता - उषाः द्वितीयस्यार्द्धर्चस्य रात्रिरपि

छन्दः - निचृत्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

शश्व॑त्पु॒रोषा व्यु॑वास दे॒व्यथो॑ अ॒द्येदं व्या॑वो म॒घोनी॑। अथो॒ व्यु॑च्छा॒दुत्त॑राँ॒ अनु॒ द्यून॒जरा॒मृता॑ चरति स्व॒धाभि॑: ॥

स्वर सहित पद पाठ

शश्व॑त् । पु॒रा । उ॒षाः । वि । उ॒वा॒स॒ । दे॒वी । अथो॒ इति॑ । अ॒द्य । इ॒दम् । वि । आ॒वः॒ । म॒घोनी॑ । अथो॒ इति॑ । वि । उ॒च्छा॒त् । उत्ऽत॑रान् । अनु॑ । द्यून् । अ॒जरा॑ । अ॒मृता॑ । च॒र॒ति॒ । स्व॒धाभिः॑ ॥


स्वर रहित मन्त्र

शश्वत्पुरोषा व्युवास देव्यथो अद्येदं व्यावो मघोनी। अथो व्युच्छादुत्तराँ अनु द्यूनजरामृता चरति स्वधाभि: ॥


स्वर रहित पद पाठ

शश्वत् । पुरा । उषाः । वि । उवास । देवी । अथो इति । अद्य । इदम् । वि । आवः । मघोनी । अथो इति । वि । उच्छात् । उत्ऽतरान् । अनु । द्यून् । अजरा । अमृता । चरति । स्वधाभिः ॥