rigveda/1/112/9

याभि॒: सिन्धुं॒ मधु॑मन्त॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि॑न्वतम्। याभि॒: कुत्सं॑ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

याभिः॑ । सिन्धु॑म् । मधु॑ऽमन्तम् । अस॑श्चतम् । वसि॑ष्ठम् । याभिः॑ । अ॒ज॒रौ॒ । अजि॑न्वतम् । याभिः॑ । कुत्स॑म् । श्रु॒तर्य॑म् । नर्य॑म् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

ऋषिः - कुत्स आङ्गिरसः

देवता - आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

याभि॒: सिन्धुं॒ मधु॑मन्त॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि॑न्वतम्। याभि॒: कुत्सं॑ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

स्वर सहित पद पाठ

याभिः॑ । सिन्धु॑म् । मधु॑ऽमन्तम् । अस॑श्चतम् । वसि॑ष्ठम् । याभिः॑ । अ॒ज॒रौ॒ । अजि॑न्वतम् । याभिः॑ । कुत्स॑म् । श्रु॒तर्य॑म् । नर्य॑म् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥


स्वर रहित मन्त्र

याभि: सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम्। याभि: कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥


स्वर रहित पद पाठ

याभिः । सिन्धुम् । मधुऽमन्तम् । असश्चतम् । वसिष्ठम् । याभिः । अजरौ । अजिन्वतम् । याभिः । कुत्सम् । श्रुतर्यम् । नर्यम् । आवतम् । ताभिः । ऊँ इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥