rigveda/1/112/3
ऋषिः - कुत्स आङ्गिरसः
देवता - आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
यु॒वम् । तासा॑म् । दि॒व्यस्य॑ । प्र॒ऽशास॑ने । वि॒शाम् । क्ष॒य॒थः॒ । अ॒मृत॑स्य । म॒ज्मना॑ । याभिः॑ । धे॒नुम् । अ॒स्व॑म् । पिन्व॑थः । न॒रा॒ । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
युवम् । तासाम् । दिव्यस्य । प्रऽशासने । विशाम् । क्षयथः । अमृतस्य । मज्मना । याभिः । धेनुम् । अस्वम् । पिन्वथः । नरा । ताभिः । ऊँ इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥