rigveda/1/112/22

याभि॒र्नरं॑ गोषु॒युधं॑ नृ॒षाह्ये॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः। याभी॒ रथाँ॒ अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

याभिः॑ । नर॑म् । गो॒षु॒ऽयुध॑म् । नृ॒ऽसह्ये॑ । क्षेत्र॑स्य । सा॒ता । तन॑यस्य । जिन्व॑थः । याभिः॑ । रथा॑न् । अव॑थः । याभिः॑ । अर्व॑तः । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

ऋषिः - कुत्स आङ्गिरसः

देवता - आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

याभि॒र्नरं॑ गोषु॒युधं॑ नृ॒षाह्ये॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः। याभी॒ रथाँ॒ अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

स्वर सहित पद पाठ

याभिः॑ । नर॑म् । गो॒षु॒ऽयुध॑म् । नृ॒ऽसह्ये॑ । क्षेत्र॑स्य । सा॒ता । तन॑यस्य । जिन्व॑थः । याभिः॑ । रथा॑न् । अव॑थः । याभिः॑ । अर्व॑तः । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥


स्वर रहित मन्त्र

याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः। याभी रथाँ अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतम् ॥


स्वर रहित पद पाठ

याभिः । नरम् । गोषुऽयुधम् । नृऽसह्ये । क्षेत्रस्य । साता । तनयस्य । जिन्वथः । याभिः । रथान् । अवथः । याभिः । अर्वतः । ताभिः । ऊँ इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥