rigveda/1/112/20

याभि॒: शंता॑ती॒ भव॑थो ददा॒शुषे॑ भु॒ज्युं याभि॒रव॑थो॒ याभि॒रध्रि॑गुम्। ओ॒म्याव॑तीं सु॒भरा॑मृत॒स्तुभं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

याभिः॑ । शन्ता॑ती॒ इति॒ शम्ऽता॑ती । भव॑थः । द॒दा॒शुषे॑ । भु॒ज्युम् । याभिः॑ । अव॑थः । याभिः॑ । अध्रि॑ऽगुम् । ओ॒म्याऽव॑तीम् । सु॒ऽभरा॑म् । ऋ॒त॒ऽस्तुभ॑म् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

ऋषिः - कुत्स आङ्गिरसः

देवता - आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

याभि॒: शंता॑ती॒ भव॑थो ददा॒शुषे॑ भु॒ज्युं याभि॒रव॑थो॒ याभि॒रध्रि॑गुम्। ओ॒म्याव॑तीं सु॒भरा॑मृत॒स्तुभं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

स्वर सहित पद पाठ

याभिः॑ । शन्ता॑ती॒ इति॒ शम्ऽता॑ती । भव॑थः । द॒दा॒शुषे॑ । भु॒ज्युम् । याभिः॑ । अव॑थः । याभिः॑ । अध्रि॑ऽगुम् । ओ॒म्याऽव॑तीम् । सु॒ऽभरा॑म् । ऋ॒त॒ऽस्तुभ॑म् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥


स्वर रहित मन्त्र

याभि: शंताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम्। ओम्यावतीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्विना गतम् ॥


स्वर रहित पद पाठ

याभिः । शन्ताती इति शम्ऽताती । भवथः । ददाशुषे । भुज्युम् । याभिः । अवथः । याभिः । अध्रिऽगुम् । ओम्याऽवतीम् । सुऽभराम् । ऋतऽस्तुभम् । ताभिः । ऊँ इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥