rigveda/1/112/12

याभी॑ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे। याभि॑स्त्रि॒शोक॑ उ॒स्रिया॑ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

याभिः॑ । र॒साम् । क्षोद॑सा । उ॒द्गः । पि॒पि॒न्वथुः॑ । अ॒न॒श्वम् । याभिः॑ । रथ॑म् । आव॑तम् । जि॒षे । याभिः॑ । त्रि॒ऽशोकः॑ । उ॒स्रियाः॑ । उ॒त्ऽआज॑त । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

ऋषिः - कुत्स आङ्गिरसः

देवता - आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

याभी॑ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे। याभि॑स्त्रि॒शोक॑ उ॒स्रिया॑ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

स्वर सहित पद पाठ

याभिः॑ । र॒साम् । क्षोद॑सा । उ॒द्गः । पि॒पि॒न्वथुः॑ । अ॒न॒श्वम् । याभिः॑ । रथ॑म् । आव॑तम् । जि॒षे । याभिः॑ । त्रि॒ऽशोकः॑ । उ॒स्रियाः॑ । उ॒त्ऽआज॑त । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥


स्वर रहित मन्त्र

याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे। याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतम् ॥


स्वर रहित पद पाठ

याभिः । रसाम् । क्षोदसा । उद्गः । पिपिन्वथुः । अनश्वम् । याभिः । रथम् । आवतम् । जिषे । याभिः । त्रिऽशोकः । उस्रियाः । उत्ऽआजत । ताभिः । ऊँ इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥