rigveda/1/111/3
ऋषिः - कुत्स आङ्गिरसः
देवता - ऋभवः
छन्दः - जगती
स्वरः - निषादः
आ । त॒क्ष॒त॒ । सा॒तिम् । अ॒स्मभ्य॑म् । ऋ॒भ॒वः॒ । सा॒तिम् । रथा॑य । सा॒तिम् । अर्व॑ते । न॒रः॒ । सा॒तिम् । नः॒ । जैत्री॑म् । सम् । म॒हे॒त॒ । वि॒श्वऽहा॑ । जा॒मिम् । अजा॑मिम् । पृत॑नासु । स॒क्षणि॑म् ॥
आ । तक्षत । सातिम् । अस्मभ्यम् । ऋभवः । सातिम् । रथाय । सातिम् । अर्वते । नरः । सातिम् । नः । जैत्रीम् । सम् । महेत । विश्वऽहा । जामिम् । अजामिम् । पृतनासु । सक्षणिम् ॥