rigveda/1/109/8

पुरं॑दरा॒ शिक्ष॑तं वज्रहस्ता॒स्माँ इ॑न्द्राग्नी अवतं॒ भरे॑षु। तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥

पुर॑म्ऽदरा॑ । शिक्ष॑तम् । व॒ज्र॒ऽह॒स्ता॒ । अ॒स्मान् । इ॒न्द्रा॒ग्नी॒ इति॑ । अ॒व॒त॒म् । भरे॑षु । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

ऋषिः - कुत्स आङ्गिरसः

देवता - इन्द्राग्नी

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

पुरं॑दरा॒ शिक्ष॑तं वज्रहस्ता॒स्माँ इ॑न्द्राग्नी अवतं॒ भरे॑षु। तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥

स्वर सहित पद पाठ

पुर॑म्ऽदरा॑ । शिक्ष॑तम् । व॒ज्र॒ऽह॒स्ता॒ । अ॒स्मान् । इ॒न्द्रा॒ग्नी॒ इति॑ । अ॒व॒त॒म् । भरे॑षु । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥


स्वर रहित मन्त्र

पुरंदरा शिक्षतं वज्रहस्तास्माँ इन्द्राग्नी अवतं भरेषु। तन्नो मित्रो वरुणो मामहन्तामदिति: सिन्धु: पृथिवी उत द्यौः ॥


स्वर रहित पद पाठ

पुरम्ऽदरा । शिक्षतम् । वज्रऽहस्ता । अस्मान् । इन्द्राग्नी इति । अवतम् । भरेषु । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥