rigveda/1/108/3
ऋषिः - कुत्स आङ्गिरसः
देवता - इन्द्राग्नी
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
च॒क्राथे॑ । हि । स॒ध्र्य॑क् । नाम॑ । भ॒द्रम् । स॒ध्री॒ची॒ना । वृ॒त्र॒ऽह॒णौ॒ । उ॒त । स्थः॒ । तौ । इ॒न्द्रा॒ग्नी॒ इति॑ । स॒ध्र्य॑ञ्चा । नि॒ऽसद्य॑ । वृष्णः॑ । सोम॑स्य । वृ॒ष॒णा॒ । आ । वृ॒षे॒था॒म् ॥
चक्राथे । हि । सध्र्यक् । नाम । भद्रम् । सध्रीचीना । वृत्रऽहणौ । उत । स्थः । तौ । इन्द्राग्नी इति । सध्र्यञ्चा । निऽसद्य । वृष्णः । सोमस्य । वृषणा । आ । वृषेथाम् ॥