rigveda/1/106/5

बृह॑स्पते॒ सद॒मिन्न॑: सु॒गं कृ॑धि॒ शं योर्यत्ते॒ मनु॑र्हितं॒ तदी॑महे। रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥

बृह॑स्पते । सद॑म् । इत् । नः॒ । सु॒ऽगम् । कृ॒धि॒ । शम् । योः । यत् । ते॒ । मनुः॑ऽहितम् । तत् । ई॒म॒हे॒ । रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒नवः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥

ऋषिः - कुत्स आङ्गिरसः

देवता - विश्वेदेवा:

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

बृह॑स्पते॒ सद॒मिन्न॑: सु॒गं कृ॑धि॒ शं योर्यत्ते॒ मनु॑र्हितं॒ तदी॑महे। रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥

स्वर सहित पद पाठ

बृह॑स्पते । सद॑म् । इत् । नः॒ । सु॒ऽगम् । कृ॒धि॒ । शम् । योः । यत् । ते॒ । मनुः॑ऽहितम् । तत् । ई॒म॒हे॒ । रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒नवः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥


स्वर रहित मन्त्र

बृहस्पते सदमिन्न: सुगं कृधि शं योर्यत्ते मनुर्हितं तदीमहे। रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥


स्वर रहित पद पाठ

बृहस्पते । सदम् । इत् । नः । सुऽगम् । कृधि । शम् । योः । यत् । ते । मनुःऽहितम् । तत् । ईमहे । रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥