rigveda/1/102/10

त्वं जि॑गेथ॒ न धना॑ रुरोधि॒थार्भे॑ष्वा॒जा म॑घवन्म॒हत्सु॑ च। त्वामु॒ग्रमव॑से॒ सं शि॑शीम॒स्यथा॑ न इन्द्र॒ हव॑नेषु चोदय ॥

त्वम् । जि॒गे॒थ॒ । न । धना॑ । रु॒रो॒धि॒थ॒ । अर्भे॑षु । आ॒जा । म॒घ॒ऽव॒न् । म॒हत्ऽसु॑ । च॒ । त्वाम् । उ॒ग्रम् । अव॑से । सम् । शि॒शी॒म॒सि॒ । अथ॑ । नः॒ । इ॒न्द्र॒ । हव॑नेषु । चो॒द॒य॒ ॥

ऋषिः - कुत्स आङ्गिरसः

देवता - इन्द्र:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

त्वं जि॑गेथ॒ न धना॑ रुरोधि॒थार्भे॑ष्वा॒जा म॑घवन्म॒हत्सु॑ च। त्वामु॒ग्रमव॑से॒ सं शि॑शीम॒स्यथा॑ न इन्द्र॒ हव॑नेषु चोदय ॥

स्वर सहित पद पाठ

त्वम् । जि॒गे॒थ॒ । न । धना॑ । रु॒रो॒धि॒थ॒ । अर्भे॑षु । आ॒जा । म॒घ॒ऽव॒न् । म॒हत्ऽसु॑ । च॒ । त्वाम् । उ॒ग्रम् । अव॑से । सम् । शि॒शी॒म॒सि॒ । अथ॑ । नः॒ । इ॒न्द्र॒ । हव॑नेषु । चो॒द॒य॒ ॥


स्वर रहित मन्त्र

त्वं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन्महत्सु च। त्वामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय ॥


स्वर रहित पद पाठ

त्वम् । जिगेथ । न । धना । रुरोधिथ । अर्भेषु । आजा । मघऽवन् । महत्ऽसु । च । त्वाम् । उग्रम् । अवसे । सम् । शिशीमसि । अथ । नः । इन्द्र । हवनेषु । चोदय ॥