rigveda/1/100/18

दस्यू॒ञ्छिम्यूँ॑श्च पुरुहू॒त एवै॑र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब॑र्हीत्। सन॒त्क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभि॒: सन॒त्सूर्यं॒ सन॑द॒पः सु॒वज्र॑: ॥

दस्यू॑न् । शिम्यू॑न् । च॒ । पु॒रु॒ऽहू॒तः । एवैः॑ । ह॒त्वा । पृ॒थि॒व्याम् । शर्वा॑ । नि । ब॒र्ही॒त् । सन॑त् । क्षेत्र॑म् । सखि॑ऽभिः । श्वि॒त्न्येभिः॑ । सन॑त् । सूर्य॑म् । सन॑त् । अ॒पः । सु॒ऽवज्रः॑ ॥

ऋषिः - वृषागिरो महाराजस्य पुत्रभूता वार्षागिरा ऋज्राश्वाम्बरीषसहदेवभयमानसुराधसः

देवता - इन्द्र:

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

दस्यू॒ञ्छिम्यूँ॑श्च पुरुहू॒त एवै॑र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब॑र्हीत्। सन॒त्क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभि॒: सन॒त्सूर्यं॒ सन॑द॒पः सु॒वज्र॑: ॥

स्वर सहित पद पाठ

दस्यू॑न् । शिम्यू॑न् । च॒ । पु॒रु॒ऽहू॒तः । एवैः॑ । ह॒त्वा । पृ॒थि॒व्याम् । शर्वा॑ । नि । ब॒र्ही॒त् । सन॑त् । क्षेत्र॑म् । सखि॑ऽभिः । श्वि॒त्न्येभिः॑ । सन॑त् । सूर्य॑म् । सन॑त् । अ॒पः । सु॒ऽवज्रः॑ ॥


स्वर रहित मन्त्र

दस्यूञ्छिम्यूँश्च पुरुहूत एवैर्हत्वा पृथिव्यां शर्वा नि बर्हीत्। सनत्क्षेत्रं सखिभिः श्वित्न्येभि: सनत्सूर्यं सनदपः सुवज्र: ॥


स्वर रहित पद पाठ

दस्यून् । शिम्यून् । च । पुरुऽहूतः । एवैः । हत्वा । पृथिव्याम् । शर्वा । नि । बर्हीत् । सनत् । क्षेत्रम् । सखिऽभिः । श्वित्न्येभिः । सनत् । सूर्यम् । सनत् । अपः । सुऽवज्रः ॥