rigveda/1/100/11

स जा॒मिभि॒र्यत्स॒मजा॑ति मी॒ळ्हेऽजा॑मिभिर्वा पुरुहू॒त एवै॑:। अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

सः । जा॒मिऽभिः॑ । यत् । स॒म्ऽअजा॑ति । मी॒ळ्हे । अजा॑मिऽभिः । वा॒ । पु॒रु॒ऽहू॒तः । एवैः॑ । अ॒पाम् । तो॒कस्य॑ । तन॑यस्य । जे॒षे । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

ऋषिः - वृषागिरो महाराजस्य पुत्रभूता वार्षागिरा ऋज्राश्वाम्बरीषसहदेवभयमानसुराधसः

देवता - इन्द्र:

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

स जा॒मिभि॒र्यत्स॒मजा॑ति मी॒ळ्हेऽजा॑मिभिर्वा पुरुहू॒त एवै॑:। अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥

स्वर सहित पद पाठ

सः । जा॒मिऽभिः॑ । यत् । स॒म्ऽअजा॑ति । मी॒ळ्हे । अजा॑मिऽभिः । वा॒ । पु॒रु॒ऽहू॒तः । एवैः॑ । अ॒पाम् । तो॒कस्य॑ । तन॑यस्य । जे॒षे । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥


स्वर रहित मन्त्र

स जामिभिर्यत्समजाति मीळ्हेऽजामिभिर्वा पुरुहूत एवै:। अपां तोकस्य तनयस्य जेषे मरुत्वान्नो भवत्विन्द्र ऊती ॥


स्वर रहित पद पाठ

सः । जामिऽभिः । यत् । सम्ऽअजाति । मीळ्हे । अजामिऽभिः । वा । पुरुऽहूतः । एवैः । अपाम् । तोकस्य । तनयस्य । जेषे । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥