rigveda/1/10/4

एहि॒ स्तोमाँ॑ अ॒भिस्व॑रा॒भि गृ॑णी॒ह्या रु॑व। ब्रह्म॑ च नो वसो॒ सचेन्द्र॑ य॒ज्ञं च॑ वर्धय॥

आ । इ॒हि॒ । स्तोमा॑न् । अ॒भि । स्व॒र॒ । अ॒भि । गृ॒णी॒हि॒ । आ । रु॒व॒ । ब्रह्म॑ । च॒ । नः॒ । व॒सो॒ इति॑ । सचा॑ । इन्द्र॑ । य॒ज्ञम् । च॒ । व॒र्ध॒य॒ ॥

ऋषिः - मधुच्छन्दाः वैश्वामित्रः

देवता - इन्द्र:

छन्दः - भुरिगुष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

एहि॒ स्तोमाँ॑ अ॒भिस्व॑रा॒भि गृ॑णी॒ह्या रु॑व। ब्रह्म॑ च नो वसो॒ सचेन्द्र॑ य॒ज्ञं च॑ वर्धय॥

स्वर सहित पद पाठ

आ । इ॒हि॒ । स्तोमा॑न् । अ॒भि । स्व॒र॒ । अ॒भि । गृ॒णी॒हि॒ । आ । रु॒व॒ । ब्रह्म॑ । च॒ । नः॒ । व॒सो॒ इति॑ । सचा॑ । इन्द्र॑ । य॒ज्ञम् । च॒ । व॒र्ध॒य॒ ॥


स्वर रहित मन्त्र

एहि स्तोमाँ अभिस्वराभि गृणीह्या रुव। ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय॥


स्वर रहित पद पाठ

आ । इहि । स्तोमान् । अभि । स्वर । अभि । गृणीहि । आ । रुव । ब्रह्म । च । नः । वसो इति । सचा । इन्द्र । यज्ञम् । च । वर्धय ॥