ऋषिः - भृग्वङ्गिराः

देवता - सर्वशीर्षामयापाकरणम्

छन्दः - अनुष्टुप्

स्वरः - यक्ष्मनिवारण सूक्त

PreviousNext
स्वर सहित मन्त्र

य ऊ॒रू अ॑नु॒सर्प॒त्यथो॒ एति॑ ग॒वीनि॑के। यक्ष्मं॑ ते अ॒न्तरङ्गे॑भ्यो ब॒हिर्निर्म॑न्त्रयामहे ॥

स्वर सहित पद पाठ

यः । ऊ॒रू इति॑ । अ॒नु॒ऽसर्प॑ति । अथो॒ इति॑ । एति॑ । ग॒वीनिके॒ इति॑ । यक्ष्म॑म् । ते॒ । अ॒न्तः । अङ्गे॑भ्यः । ब॒हिः । निः । म॒न्त्र॒या॒म॒हे॒ ॥१३.७॥


स्वर रहित मन्त्र

य ऊरू अनुसर्पत्यथो एति गवीनिके। यक्ष्मं ते अन्तरङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥


स्वर रहित पद पाठ

यः । ऊरू इति । अनुऽसर्पति । अथो इति । एति । गवीनिके इति । यक्ष्मम् । ते । अन्तः । अङ्गेभ्यः । बहिः । निः । मन्त्रयामहे ॥१३.७॥