ऋषिः - भृग्वङ्गिराः

देवता - सर्वशीर्षामयापाकरणम्

छन्दः - अनुष्टुप्

स्वरः - यक्ष्मनिवारण सूक्त

PreviousNext
स्वर सहित मन्त्र

यः कृ॒णोति॑ प्र॒मोत॑म॒न्धं कृ॒णोति॒ पूरु॑षम्। सर्वं॑ शीर्ष॒र्ण्यं ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥

स्वर सहित पद पाठ

यः । कृ॒णोति॑ । प्र॒ऽमोत॑म् । अ॒न्धम् । कृ॒णोति॑ । पुरु॑षम् । सर्व॑म् । शी॒र्ष॒ण्य᳡म् । ते॒ । रोग॑म् । ब॒हिः । निः । म॒न्त्र॒या॒म॒हे॒ ॥१३.४॥


स्वर रहित मन्त्र

यः कृणोति प्रमोतमन्धं कृणोति पूरुषम्। सर्वं शीर्षर्ण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥


स्वर रहित पद पाठ

यः । कृणोति । प्रऽमोतम् । अन्धम् । कृणोति । पुरुषम् । सर्वम् । शीर्षण्य᳡म् । ते । रोगम् । बहिः । निः । मन्त्रयामहे ॥१३.४॥