ऋषिः - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
स्वरः - यक्ष्मनिवारण सूक्त
यस्य॑ । हे॒तोः । प्र॒ऽच्यव॑ते । यक्ष्म॑ः । क॒र्ण॒तः । आ॒स्य॒तः । सर्व॑म् । शी॒र्ष॒ण्य᳡म् । ते॒ । रोग॑म् । ब॒हिः । निः । म॒न्त्र॒या॒म॒हे॒ ॥१३.३॥
यस्य । हेतोः । प्रऽच्यवते । यक्ष्मः । कर्णतः । आस्यतः । सर्वम् । शीर्षण्य᳡म् । ते । रोगम् । बहिः । निः । मन्त्रयामहे ॥१३.३॥