ऋषिः - ब्रह्मा

देवता - गौः

छन्दः - पुरउष्णिक्

स्वरः - गौ सूक्त

PreviousNext
स्वर सहित मन्त्र

धा॒ता च॑ सवि॒ता चा॑ष्ठी॒वन्तौ॒ जङ्घा॑ गन्ध॒र्वा अ॑प्स॒रसः॒ कुष्ठि॑का॒ अदि॑तिः श॒फा ॥

स्वर सहित पद पाठ

धा॒ता । च॒ । स॒वि॒ता । च॒ । अ॒ष्ठी॒वन्तौ॑ । जङ्घा॑ः । ग॒न्ध॒र्वाः ।अ॒प्स॒रस॑ः । कुष्ठि॑काः । अदि॑तिः । श॒फाः ॥१२.१०॥


स्वर रहित मन्त्र

धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफा ॥


स्वर रहित पद पाठ

धाता । च । सविता । च । अष्ठीवन्तौ । जङ्घाः । गन्धर्वाः ।अप्सरसः । कुष्ठिकाः । अदितिः । शफाः ॥१२.१०॥