ऋषिः - ब्रह्मा

देवता - अतिथिः, विद्या

छन्दः - त्रिपदार्ची त्रिष्टुप्

स्वरः - अतिथि सत्कार

PreviousNext
स्वर सहित मन्त्र

स॑र्व॒दा वा ए॒ष यु॒क्तग्रा॑वा॒र्द्रप॑वित्रो॒ वित॑ताध्वर॒ आहृ॑तयज्ञक्रतु॒र्य उ॑प॒हर॑ति ॥

स्वर सहित पद पाठ

स॒र्व॒दा । वै । ए॒षः । यु॒क्तऽग्रा॑वा । आ॒र्द्रऽप॑वित्रः । वित॑तऽअध्वरः । आहृ॑तऽयज्ञक्रतुः । यः । उ॒प॒ऽहर॑ति ॥७.१०॥


स्वर रहित मन्त्र

सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर्य उपहरति ॥


स्वर रहित पद पाठ

सर्वदा । वै । एषः । युक्तऽग्रावा । आर्द्रऽपवित्रः । विततऽअध्वरः । आहृतऽयज्ञक्रतुः । यः । उपऽहरति ॥७.१०॥