atharvaveda/9/5/6

उत्क्रा॒मातः॒ परि॑ चे॒दत॑प्तस्त॒प्ताच्च॒रोरधि॒ नाकं॑ तृ॒तीय॑म्। अ॒ग्नेर॒ग्निरधि॒ सं ब॑भूविथ॒ ज्योति॑ष्मन्तम॒भि लो॒कं ज॑यै॒तम् ॥

उत् । क्रा॒म॒ । अत॑: । परि॑ । च॒ । इत् । अत॑प्त: । त॒प्तात् । च॒रो: । अधि॑ । नाक॑म् । तृ॒तीय॑म् । अ॒ग्ने: । अ॒ग्नि: । अधि॑ । सम् । ब॒भू॒वि॒थ॒ । ज्योति॑ष्मन्तम् । अ॒भि । लो॒कम् । ज॒य॒ । ए॒तम् ॥५.६॥

ऋषिः - भृगुः

देवता - अजः पञ्चौदनः

छन्दः - त्रिष्टुप्

स्वरः - अज सूक्त

स्वर सहित मन्त्र

उत्क्रा॒मातः॒ परि॑ चे॒दत॑प्तस्त॒प्ताच्च॒रोरधि॒ नाकं॑ तृ॒तीय॑म्। अ॒ग्नेर॒ग्निरधि॒ सं ब॑भूविथ॒ ज्योति॑ष्मन्तम॒भि लो॒कं ज॑यै॒तम् ॥

स्वर सहित पद पाठ

उत् । क्रा॒म॒ । अत॑: । परि॑ । च॒ । इत् । अत॑प्त: । त॒प्तात् । च॒रो: । अधि॑ । नाक॑म् । तृ॒तीय॑म् । अ॒ग्ने: । अ॒ग्नि: । अधि॑ । सम् । ब॒भू॒वि॒थ॒ । ज्योति॑ष्मन्तम् । अ॒भि । लो॒कम् । ज॒य॒ । ए॒तम् ॥५.६॥


स्वर रहित मन्त्र

उत्क्रामातः परि चेदतप्तस्तप्ताच्चरोरधि नाकं तृतीयम्। अग्नेरग्निरधि सं बभूविथ ज्योतिष्मन्तमभि लोकं जयैतम् ॥


स्वर रहित पद पाठ

उत् । क्राम । अत: । परि । च । इत् । अतप्त: । तप्तात् । चरो: । अधि । नाकम् । तृतीयम् । अग्ने: । अग्नि: । अधि । सम् । बभूविथ । ज्योतिष्मन्तम् । अभि । लोकम् । जय । एतम् ॥५.६॥