atharvaveda/9/5/35

यो वा उ॒द्यन्तं॒ नाम॒र्तुं वेद॑। उ॑द्यतीमु॑द्यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वा उ॒द्यन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥

य: । वै । उ॒त्ऽयन्त॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । उ॒द्य॒तीम्ऽउ॑द्यतीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य। श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । उ॒त्ऽयन् । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन:॥५.३५॥

ऋषिः - भृगुः

देवता - अजः पञ्चौदनः

छन्दः - दशपदा प्रकृतिः

स्वरः - अज सूक्त

स्वर सहित मन्त्र

यो वा उ॒द्यन्तं॒ नाम॒र्तुं वेद॑। उ॑द्यतीमु॑द्यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वा उ॒द्यन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥

स्वर सहित पद पाठ

य: । वै । उ॒त्ऽयन्त॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । उ॒द्य॒तीम्ऽउ॑द्यतीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य। श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । उ॒त्ऽयन् । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन:॥५.३५॥


स्वर रहित मन्त्र

यो वा उद्यन्तं नामर्तुं वेद। उद्यतीमुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वा उद्यन्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥


स्वर रहित पद पाठ

य: । वै । उत्ऽयन्तम् । नाम । ऋतुम् । वेद । उद्यतीम्ऽउद्यतीम् । एव । अप्रियस्य । भ्रातृव्यस्य। श्रियम् । आ । दत्ते । एष: । वै । उत्ऽयन् । नाम । ऋतु: । यत् । अज: । पञ्चऽओदन:॥५.३५॥