ऋषिः - भृगुः

देवता - अजः पञ्चौदनः

छन्दः - पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हताभुरिक्त्रिष्टुप्

स्वरः - अज सूक्त

PreviousNext
स्वर सहित मन्त्र

स॒त्यं च॒र्तं च॒ चक्षु॑षी॒ विश्वं॑ स॒त्यं श्र॒द्धा प्रा॒णो वि॒राट्शिरः॑। ए॒ष वा अप॑रिमितो य॒ज्ञो यद॒जः पञ्चौ॑दनः ॥

स्वर सहित पद पाठ

स॒त्यम् । च॒ । ऋ॒तम् । च॒ । चक्षु॑षी॒ इति॑ । विश्व॑म् । स॒त्यम् । श्र॒ध्दा । प्रा॒णः । वि॒ऽराट् । शिर॑ः । ए॒षः । वै । अप॑रिऽमितः । य॒ज्ञः । यत् । अ॒जः । पञ्च॑ऽओदनः ॥५.२१॥


स्वर रहित मन्त्र

सत्यं चर्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट्शिरः। एष वा अपरिमितो यज्ञो यदजः पञ्चौदनः ॥


स्वर रहित पद पाठ

सत्यम् । च । ऋतम् । च । चक्षुषी इति । विश्वम् । सत्यम् । श्रध्दा । प्राणः । विऽराट् । शिरः । एषः । वै । अपरिऽमितः । यज्ञः । यत् । अजः । पञ्चऽओदनः ॥५.२१॥