ऋषिः - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - त्रिष्टुप्
स्वरः - अज सूक्त
यम् । ब्रा॒ह्म॒णे । नि॒ऽद॒धे । यम् । च॒ । वि॒क्षु । याः । वि॒ऽप्रुष॑ः । ओ॒द॒नाना॑म् । अ॒जस्य॑ । सर्व॑म् । तत् । अ॒ग्ने॒ । सु॒ऽकृ॒तस्य॑ । लो॒के । जा॒नी॒तात् । न॒ः । स॒म्ऽगम॑ने । प॒थी॒नाम् ॥५.१९॥
यम् । ब्राह्मणे । निऽदधे । यम् । च । विक्षु । याः । विऽप्रुषः । ओदनानाम् । अजस्य । सर्वम् । तत् । अग्ने । सुऽकृतस्य । लोके । जानीतात् । नः । सम्ऽगमने । पथीनाम् ॥५.१९॥