ऋषिः - ब्रह्मा

देवता - ऋषभः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - ऋषभ सूक्त

PreviousNext
स्वर सहित मन्त्र

इन्द्र॒स्यौजो॒ वरु॑णस्य बा॒हू अ॒श्विनो॒रंसौ॑ म॒रुता॑मि॒यं क॒कुत्। बृह॒स्पतिं॒ संभृ॑तमे॒तमा॑हु॒र्ये धीरा॑सः क॒वयो॒ ये म॑नी॒षिणः॑ ॥

स्वर सहित पद पाठ

इन्द्र॑स्य । ओज॑ः । वरु॑णस्य । बा॒हू इति॑ । अ॒श्विनो॑ः । अंसौ॑ । म॒रुता॑म् । इ॒यम् । क॒कुत् । बृह॒स्पति॑म् । सम्ऽभृ॑तम् । ए॒तम् । आ॒हु॒ः । ये । धीरा॑सः । क॒वय॑ः । ये । म॒नी॒षिण॑ः ॥४.८॥


स्वर रहित मन्त्र

इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत्। बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः ॥


स्वर रहित पद पाठ

इन्द्रस्य । ओजः । वरुणस्य । बाहू इति । अश्विनोः । अंसौ । मरुताम् । इयम् । ककुत् । बृहस्पतिम् । सम्ऽभृतम् । एतम् । आहुः । ये । धीरासः । कवयः । ये । मनीषिणः ॥४.८॥