ऋषिः - ब्रह्मा

देवता - ऋषभः

छन्दः - त्रिष्टुप्

स्वरः - ऋषभ सूक्त

PreviousNext
स्वर सहित मन्त्र

आज्यं॑ बिभर्ति घृ॒तम॑स्य॒ रेतः॑ साह॒स्रः पोष॒स्तमु॑ य॒ज्ञमा॑हुः। इन्द्र॑स्य रू॒पमृ॑ष॒भो वसा॑नः॒ सो अ॒स्मान्दे॑वाः शि॒व ऐतु॑ द॒त्तः ॥

स्वर सहित पद पाठ

आज्य॑म् । बि॒भ॒र्ति॒ । घृ॒तम् । अ॒स्य॒ । रेत॑ः । सा॒ह॒स्रः । पोष॑ः । तम् । ऊं॒ इति॑ । य॒ज्ञम् । आ॒हु॒ः । इन्द्र॑स्य । रू॒पम् । ऋ॒ष॒भः । वसा॑नः । सः । अ॒स्मान् । दे॒वा॒ः । शि॒वः । आ । ए॒तु॒ । द॒त्तः ॥४.७॥


स्वर रहित मन्त्र

आज्यं बिभर्ति घृतमस्य रेतः साहस्रः पोषस्तमु यज्ञमाहुः। इन्द्रस्य रूपमृषभो वसानः सो अस्मान्देवाः शिव ऐतु दत्तः ॥


स्वर रहित पद पाठ

आज्यम् । बिभर्ति । घृतम् । अस्य । रेतः । साहस्रः । पोषः । तम् । ऊं इति । यज्ञम् । आहुः । इन्द्रस्य । रूपम् । ऋषभः । वसानः । सः । अस्मान् । देवाः । शिवः । आ । एतु । दत्तः ॥४.७॥