ऋषिः - ब्रह्मा

देवता - ऋषभः

छन्दः - त्रिष्टुप्

स्वरः - ऋषभ सूक्त

PreviousNext
स्वर सहित मन्त्र

दे॒वानां॑ भा॒ग उ॑पना॒ह ए॒षो॒पां रस॒ ओष॑धीनां घृ॒तस्य॑। सोम॑स्य भ॒क्षम॑वृणीत श॒क्रो बृ॒हन्नद्रि॑रभव॒द्यच्छरी॑रम् ॥

स्वर सहित पद पाठ

दे॒वाना॑म् । भा॒गः । उ॒प॒ऽना॒हः । ए॒षः । अ॒पाम् । रस॑ः । ओष॑धीनाम् । घृ॒तस्य॑ । सोम॑स्य । भ॒क्षम् । अ॒वृ॒णी॒त॒ । श॒क्रः । बृ॒हन् । अद्रि॑ः । अ॒भ॒व॒त् । यत् । शरी॑रम् ॥४.५॥


स्वर रहित मन्त्र

देवानां भाग उपनाह एषोपां रस ओषधीनां घृतस्य। सोमस्य भक्षमवृणीत शक्रो बृहन्नद्रिरभवद्यच्छरीरम् ॥


स्वर रहित पद पाठ

देवानाम् । भागः । उपऽनाहः । एषः । अपाम् । रसः । ओषधीनाम् । घृतस्य । सोमस्य । भक्षम् । अवृणीत । शक्रः । बृहन् । अद्रिः । अभवत् । यत् । शरीरम् ॥४.५॥