ऋषिः - ब्रह्मा

देवता - ऋषभः

छन्दः - त्रिष्टुप्

स्वरः - ऋषभ सूक्त

PreviousNext
स्वर सहित मन्त्र

पुमा॑न॒न्तर्वा॒न्त्स्थवि॑रः॒ पय॑स्वा॒न्वसोः॒ कब॑न्धमृष॒भो बि॑भर्ति। तमिन्द्रा॑य प॒थिभि॑र्देव॒यानै॑र्हु॒तम॒ग्निर्व॑हतु जा॒तवे॑दाः ॥

स्वर सहित पद पाठ

पुमा॑न् । अ॒न्तःऽवा॑न् । स्थवि॑रः । पय॑स्वान् । वसो॑ः । कब॑न्धम् । ऋ॒ष॒भः । बि॒भ॒र्ति॒ । तम् । इन्द्रा॑य । प॒थिऽभि॑ः । दे॒व॒ऽयानै॑ः । हु॒तम् । अ॒ग्निः । व॒ह॒तु॒ । जा॒तऽवे॑दाः ॥४.३॥


स्वर रहित मन्त्र

पुमानन्तर्वान्त्स्थविरः पयस्वान्वसोः कबन्धमृषभो बिभर्ति। तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ॥


स्वर रहित पद पाठ

पुमान् । अन्तःऽवान् । स्थविरः । पयस्वान् । वसोः । कबन्धम् । ऋषभः । बिभर्ति । तम् । इन्द्राय । पथिऽभिः । देवऽयानैः । हुतम् । अग्निः । वहतु । जातऽवेदाः ॥४.३॥