ऋषिः - ब्रह्मा

देवता - ऋषभः

छन्दः - जगती

स्वरः - ऋषभ सूक्त

PreviousNext
स्वर सहित मन्त्र

ए॒तं वो॒ युवा॑नं॒ प्रति॑ दध्मो॒ अत्र॒ तेन॒ क्रीड॑न्तीश्चरत॒ वशाँ॒ अनु॑। मा नो॑ हासिष्ट ज॒नुषा॑ सुभागा रा॒यश्च॒ पोषै॑र॒भि नः॑ सचध्वम् ॥

स्वर सहित पद पाठ

ए॒तम् । व॒ः । युवा॑नम् । प्रति॑ । द॒ध्म॒ः । अत्र॑ । तेन॑ । क्रीड॑न्तीः । च॒र॒त॒ । वशा॑न् । अनु॑ । मा । न॒ः । हा॒सि॒ष्ट॒ । ज॒नुषा॑ । सु॒ऽभा॒गा॒ः । रा॒यः । च॒ । पोषै॑ः । अ॒भि । न॒ः । स॒च॒ध्व॒म् ॥४.२५॥


स्वर रहित मन्त्र

एतं वो युवानं प्रति दध्मो अत्र तेन क्रीडन्तीश्चरत वशाँ अनु। मा नो हासिष्ट जनुषा सुभागा रायश्च पोषैरभि नः सचध्वम् ॥


स्वर रहित पद पाठ

एतम् । वः । युवानम् । प्रति । दध्मः । अत्र । तेन । क्रीडन्तीः । चरत । वशान् । अनु । मा । नः । हासिष्ट । जनुषा । सुऽभागाः । रायः । च । पोषैः । अभि । नः । सचध्वम् ॥४.२५॥