ऋषिः - ब्रह्मा
देवता - ऋषभः
छन्दः - त्रिष्टुप्
स्वरः - ऋषभ सूक्त
सा॒ह॒स्रः । त्वे॒षः । ऋ॒ष॒भः । पय॑स्वान् । विश्वा॑ । रू॒पाणि॑ । व॒क्षणा॑सु । बिभ्र॑त् । भ॒द्रम् । दा॒त्रे । यज॑मानाय । शिक्ष॑न् । बा॒र्ह॒स्प॒त्यः । उ॒स्रिय॑ः । तन्तु॑म् । आ । अ॒ता॒न् ॥४.१॥
साहस्रः । त्वेषः । ऋषभः । पयस्वान् । विश्वा । रूपाणि । वक्षणासु । बिभ्रत् । भद्रम् । दात्रे । यजमानाय । शिक्षन् । बार्हस्पत्यः । उस्रियः । तन्तुम् । आ । अतान् ॥४.१॥