ऋषिः - भृग्वङ्गिराः

देवता - शाला

छन्दः - परोष्णिक्

स्वरः - शाला सूक्त

PreviousNext
स्वर सहित मन्त्र

ह॑वि॒र्धान॑मग्नि॒शालं॒ पत्नी॑नां॒ सद॑नं॒ सदः॑। सदो॑ दे॒वाना॑मसि देवि शाले ॥

स्वर सहित पद पाठ

ह॒वि॒ःऽधान॑म् । अ॒ग्नि॒ऽशाल॑म् । पत्नी॑नाम् । सद॑नम् । सद॑ः । सद॑ः । दे॒वाना॑म् । अ॒सि॒ । दे॒वि॒ । शा॒ले॒ ॥३.७॥


स्वर रहित मन्त्र

हविर्धानमग्निशालं पत्नीनां सदनं सदः। सदो देवानामसि देवि शाले ॥


स्वर रहित पद पाठ

हविःऽधानम् । अग्निऽशालम् । पत्नीनाम् । सदनम् । सदः । सदः । देवानाम् । असि । देवि । शाले ॥३.७॥