ऋषिः - भृग्वङ्गिराः

देवता - शाला

छन्दः - अनुष्टुप्

स्वरः - शाला सूक्त

PreviousNext
स्वर सहित मन्त्र

मा नः॒ पाशं॒ प्रति॑ मुचो गु॒रुर्भा॒रो ल॒घुर्भ॑व। व॒धूमि॑व त्वा शाले यत्र॒कामं॑ भरामसि ॥

स्वर सहित पद पाठ

मा । न॒ः । पाश॑म् । प्रति॑ । मु॒च॒ः । गु॒रुः । भा॒रः । ल॒घुः । भ॒व॒ । व॒धूम्ऽइ॑व । त्वा॒ । शा॒ले॒ । य॒त्र॒ऽकाम॑म् । भ॒रा॒म॒सि॒ ॥३.२४॥


स्वर रहित मन्त्र

मा नः पाशं प्रति मुचो गुरुर्भारो लघुर्भव। वधूमिव त्वा शाले यत्रकामं भरामसि ॥


स्वर रहित पद पाठ

मा । नः । पाशम् । प्रति । मुचः । गुरुः । भारः । लघुः । भव । वधूम्ऽइव । त्वा । शाले । यत्रऽकामम् । भरामसि ॥३.२४॥