ऋषिः - भृग्वङ्गिराः

देवता - शाला

छन्दः - अनुष्टुप्

स्वरः - शाला सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒ग्निम॒न्तश्छा॑दयसि॒ पुरु॑षान्प॒शुभिः॑ स॒ह। विजा॑वति॒ प्रजा॑वति॒ वि ते॒ पाशां॑श्चृतामसि ॥

स्वर सहित पद पाठ

अ॒ग्निम् । अ॒न्तः । छा॒द॒य॒सि॒ । पुरु॑षान् । प॒शुऽभि॑ः । स॒ह । विजा॑ऽवति । प्रजा॑ऽवति । वि । ते॒ । पाशा॑न् । चृ॒ता॒म॒सि॒ ॥३.१४॥


स्वर रहित मन्त्र

अग्निमन्तश्छादयसि पुरुषान्पशुभिः सह। विजावति प्रजावति वि ते पाशांश्चृतामसि ॥


स्वर रहित पद पाठ

अग्निम् । अन्तः । छादयसि । पुरुषान् । पशुऽभिः । सह । विजाऽवति । प्रजाऽवति । वि । ते । पाशान् । चृतामसि ॥३.१४॥