ऋषिः - अथर्वा

देवता - कामः

छन्दः - त्रिष्टुप्

स्वरः - काम सूक्त

PreviousNext
स्वर सहित मन्त्र

याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा याव॒दापः॑ सिष्य॒दुर्याव॑द॒ग्निः। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥

स्वर सहित पद पाठ

याव॑ती॒ इति॑ । द्यावा॑पृथि॒वी इति॑ । व॒रि॒म्णा । याव॑त् । आप॑ः । सि॒स्य॒दुः । याव॑त् । अ॒ग्निः । तत॑ः । त्वम् । अ॒सि॒ ।ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑ः । इत् । कृ॒णो॒मि॒ । २.२०॥


स्वर रहित मन्त्र

यावती द्यावापृथिवी वरिम्णा यावदापः सिष्यदुर्यावदग्निः। ततस्त्वमसि ज्यायान्विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥


स्वर रहित पद पाठ

यावती इति । द्यावापृथिवी इति । वरिम्णा । यावत् । आपः । सिस्यदुः । यावत् । अग्निः । ततः । त्वम् । असि ।ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नमः । इत् । कृणोमि । २.२०॥