ऋषिः - अथर्वा
देवता - कामः
छन्दः - त्रिष्टुप्
स्वरः - काम सूक्त
काम॑ः । ज॒ज्ञे॒ । प्र॒थ॒मः । न । ए॒न॒म् । दे॒वाः । आ॒पु॒ः । पि॒तर॑ः । न । मर्त्या॑ः । तत॑ः । त्वम् । अ॒सि॒ । ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑ः । इत् । कृ॒णो॒मि॒ ॥२.१९॥
कामः । जज्ञे । प्रथमः । न । एनम् । देवाः । आपुः । पितरः । न । मर्त्याः । ततः । त्वम् । असि । ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नमः । इत् । कृणोमि ॥२.१९॥