ऋषिः - अथर्वा

देवता - कामः

छन्दः - जगती

स्वरः - काम सूक्त

PreviousNext
स्वर सहित मन्त्र

अस॑र्ववीरश्चरतु॒ प्रणु॑त्तो॒ द्वेष्यो॑ मि॒त्राणां॑ परिव॒र्ग्यः स्वाना॑म्। उ॒त पृ॑थि॒व्यामव॑ स्यन्ति वि॒द्युत॑ उ॒ग्रो वो॑ दे॒वः प्र मृ॑णत्स॒पत्ना॑न् ॥

स्वर सहित पद पाठ

अस॑र्वऽवीरः । च॒र॒तु॒ । प्रऽनु॑त्तः । द्वेष्य॑ः । मि॒त्राणा॑म् । प॒रि॒ऽव॒र्ग्य᳡ः । स्वाना॑म् । उ॒त । पृ॒थि॒व्याम् । अव॑ । य॒न्ति॒ । वि॒ऽद्युत॑ः ।उ॒ग्रः । व॒ः । दे॒वः । प्र । मृ॒ण॒त् । स॒ऽपत्ना॑न् ॥२.१४॥


स्वर रहित मन्त्र

असर्ववीरश्चरतु प्रणुत्तो द्वेष्यो मित्राणां परिवर्ग्यः स्वानाम्। उत पृथिव्यामव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत्सपत्नान् ॥


स्वर रहित पद पाठ

असर्वऽवीरः । चरतु । प्रऽनुत्तः । द्वेष्यः । मित्राणाम् । परिऽवर्ग्य᳡ः । स्वानाम् । उत । पृथिव्याम् । अव । यन्ति । विऽद्युतः ।उग्रः । वः । देवः । प्र । मृणत् । सऽपत्नान् ॥२.१४॥