ऋषिः - अथर्वा

देवता - कामः

छन्दः - त्रिष्टुप्

स्वरः - काम सूक्त

PreviousNext
स्वर सहित मन्त्र

ज॒हि त्वं का॑म॒ मम॒ ये स॒पत्ना॑ अ॒न्धा तमां॒स्यव॑ पादयैनान्। निरि॑न्द्रिया अर॒साः स॑न्तु॒ सर्वे॒ मा ते जी॑विषुः कत॒मच्च॒नाहः॑ ॥

स्वर सहित पद पाठ

ज॒हि । त्वम् । का॒म॒ । मम॑ । ये । स॒ऽपत्ना॑ः । अ॒न्धा । तमां॑सि । अव॑ । पा॒द॒य॒ । ए॒ना॒न् । निःऽइ॑न्द्रियाः । अ॒र॒साः । स॒न्तु॒ । सर्वे॑ । मा । ते । जी॒वि॒षु॒ः । क॒त॒मत् । च॒न । अह॑ः ॥२.१०॥


स्वर रहित मन्त्र

जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान्। निरिन्द्रिया अरसाः सन्तु सर्वे मा ते जीविषुः कतमच्चनाहः ॥


स्वर रहित पद पाठ

जहि । त्वम् । काम । मम । ये । सऽपत्नाः । अन्धा । तमांसि । अव । पादय । एनान् । निःऽइन्द्रियाः । अरसाः । सन्तु । सर्वे । मा । ते । जीविषुः । कतमत् । चन । अहः ॥२.१०॥